Share This Article
Shri Siddhivinayak Stotram is a devotional hymn dedicated to Lord Ganesha in his form as Siddhivinayak, the giver of success and accomplisher of all wishes. Reciting this stotram with faith removes obstacles, grants prosperity, and fulfills desires. It is especially chanted before new beginnings, important tasks, and spiritual practices to invoke Lord Ganesha’s divine blessings of wisdom, peace, and achievement.
Shri SiddhiVinayak Stotram
विघ्नेश विघ्नचयखण्डननामधेय
श्रीशंकरात्मज सुराधिपवन्द्यपाद ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ १ ॥
सत्पद्मरागमणिवर्णशरीरकान्तिः
श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः ।
दक्षस्तने वलयितातिमनोज्ञशुण्डो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ २ ॥
पाशाङ्कुशाब्जपरशूंश्र्च दधच्चतुर्भिर्दोर्भिश्र्च
शोणकुसुमस्त्रगुमाङ्गजातः ।
सिन्दूरशोभितललाटविधुप्रकाशो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ३ ॥
कार्येषु विघ्नचयभीतविरञ्चिमुख्यैः
सम्पूजितः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूज्यो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ४ ॥
शीघ्राञ्चनस्खलनतुङ्गरवोर्ध्वकण्ठ
स्थूलेन्दुरुद्रगणहासितदेवसङ्घः ।
शूर्पश्रुतिश्र्च पृथुवर्तुलङ्गतुन्दो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ५ ॥
यज्ञोपवीतपदलम्भितनागराजो
मासादिपुण्यददृशीकृतऋक्षराजः ।
भक्ताभयप्रद दयालय विघ्नराज
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ६ ॥
सद्रत्नसारततिराजितसत्किरीटः
कौस्तुम्भचारुवसनद्वय ऊर्जितश्रीः ।
सर्वत्र मङ्गलकरस्मरणप्रतापो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ७ ॥
देवान्तकाद्यसुरभीतसुरार्तिहर्ता
विज्ञानबोधनवरेण तमोऽपहर्ता ।
आनन्दितत्रिभुवनेश कुमारबन्धो
विघ्नं ममापहर सिद्धिविनायक त्वम् ॥ ८ ॥
॥ इति श्रीमुद्गलपुराणे श्रीसिद्धिविनायक स्तोत्रम् सम्पूर्णम् ॥
॥ श्रीसिद्धिविनायकार्पणमस्तु ॥