Share This Article
Ganpati Stotra praises Lord Ganesha, remover of obstacles. Reciting it brings wisdom, prosperity, peace, and divine blessings for success in life.
Ganpati Stotra Music Video
Ganpati Stotra
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।।
भक्तावासं स्मरेनित्यमायु:सर्वकामार्थसिध्दये ।।१।।
प्रथमं वक्रतुंड च एकदन्तं द्वितीयकम् ।।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।२।।
लंबोदरं पंचमं च षष्ठं विकटमेव च ।।
सप्तमं विघ्न राजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।३।।
नवमं भालचंद्रं च दशमं तु विनायकम्।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।४।।
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।।
न च विघ्नभयं तस्य सर्वसिध्दिकरं प्रभो ।।५।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्।।६।।
जपेत् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।।
संवत्सरेण सिध्दिं च लभते नात्र संशयः।।७।।
अष्टभ्यो ब्राम्हाणेभ्यश्च लिखित्वा यः समर्पयेत् ।।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः।।८।।
इति श्री नारदपुराणे संकटनाशनं नाम महागणपतिस्तोत्रं संपूर्णम्।।